|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.255. अध्यायः 255
Mahabharata - Adi Parva - Chapter Topics
शार्ङ्गकाणां मोचनकारणे जनमेजयेन पृष्टे वैशम्पायनेन मन्दपालोपाख्यानकथनारम्भः॥ 1 ॥ तपसा पितृलोकं गतस्याप्यनवाप्ततपःफळस्य मन्दपालस्य देवाज्ञया प्रजोत्पादनार्थं पुनर्भूमावागमनम्॥ 2 ॥ तत्र शार्ङ्ग्यां जरितायां पुत्रचतुष्टयोत्पादनम्॥ 3 ॥ सपुत्रां जरितां खाण्डवे विसृज्य लपितानाम्न्याऽन्यया शार्ङ्ग्या संगतस्य मन्दपालस्य विप्ररूपाग्निदर्शनम्॥ 4 ॥ तस्य खाण्डवदिधक्षां ज्ञात्वा पुत्ररक्षणार्थं स्तुतादग्नेर्वरलाभः॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-255-0x(1332)(11091)
किमर्थं शार्ङ्गकानग्निर्न ददाह तथा गते।
तस्मिन्वने दह्यमाने ब्रह्मन्नेतत्प्रचक्ष्व मे॥ 1-255-1(11092)
अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च।
कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकाणां न कीर्तितम्॥ 1-255-2(11093)
तदेतदद्भुतं ब्रह्मञ्शार्ङ्गकाणामनामयम्।
कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः॥ 1-255-3(11094)
वैशम्पायन उवाच। 1-255-4x(1333)
यदर्थं शार्ङ्गकानग्निर्न ददाह तथा गते।
तत्ते सर्वं प्रवक्ष्यामि यथा भूतमरिन्दम॥ 1-255-4(11095)
धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः।
आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः॥ 1-255-5(11096)
स मार्गमाश्रितो राजन्नृषीणामूर्ध्वरेतसाम्।
स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः॥ 1-255-6(11097)
स गत्वा तपसः पारं देहमुत्सृज्य भारत।
जगाम पितृलोकाय न लेभे तत्र तत्फलम्॥ 1-255-7(11098)
स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि।
पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः॥ 1-255-8(11099)
मन्दपाल उवाच। 1-255-9x(1334)
किमर्थमावृता लोका ममैते तपसाऽर्जिताः।
किं मया न कृतं तत्र यस्यैतत्कर्मणः फलम्॥ 1-255-9(11100)
तत्राहं तत्करिष्यामि यदर्थमिदमावृतम्।
फलमेतस्य तपसः कथयध्वं दिवौकसः॥ 1-255-10(11101)
देवा ऊचुः। 1-255-11x(1335)
ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु।
क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः॥ 1-255-11(11102)
तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः।
तपस्वी यज्ञकृच्चासि न च ते विद्यते प्रजा॥ 1-255-12(11103)
त इमे प्रसवस्यार्थे तव लोकाः समावृताः।
प्रजायस्व ततो लोकानुपभोक्ष्यसि पुष्कलान्॥ 1-255-13(11104)
पुन्नाम्नो नरकात्पुत्रस्त्रायते पितरं श्रुतिः।
तस्मादपत्यसन्ताने यतस्व ब्रह्मसत्तम॥ 1-255-14(11105)
वैशम्पायन उवाच। 1-255-15x(1336)
तच्छ्रुत्वा मन्दपालस्तु वचस्तेषां दिवौकसाम्।
क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत्॥ 1-255-15(11106)
स चिन्तयन्नभ्यगच्छत्सुबहुप्रसवान्खगान्।
शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान्॥ 1-255-16(11107)
तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः।
तानपास्य स तत्रैव जगाम लपितां प्रति॥ 1-255-17(11108)
बालान्स तानण्डगतान्सह मात्रा मुनिर्वने।
तस्मिन्गते महाभागे लपितां प्रति भारत॥ 1-255-18(11109)
अपत्यस्नेहसंयुक्ता जरिता बह्वचिन्तयत्।
तेन त्यक्तानसंत्याज्यानृषीनण्डगतान्वने॥ 1-255-19(11110)
न जहौ पुत्रशोकार्ता जरिता खाण्डवे सुतान्।
बभार चैतान्संजातान्स्ववृत्त्या स्नेहविक्लवा॥ 1-255-20(11111)
ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः।
मन्दपालश्चरंस्तस्मिन्वने लपितया सह॥ 1-255-21(11112)
तं संकल्पं विदित्वाग्नेर्ज्ञात्वा पुत्रांश्च बालकान्।
सोऽभितुष्टाव विप्रर्षिब्रार्ह्मणो जातवेदसम्॥ 1-255-22(11113)
पुत्रान्प्रतिवदन्भीतो लोकपालं महौजसम्। 1-255-23(11114)
मन्दपाल उवाच।
त्वमग्ने सर्वलोकानां मुखं त्वमसि हव्यवाट्॥ 1-255-23x(1337)
त्वमन्तः सर्वभूतानां गूढश्चरसि पावक।
त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः॥ 1-255-24(11115)
त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन्।
त्वया विश्वमिदं सृष्टं वदन्ति परमर्षयः॥ 1-255-25(11116)
त्वदृते हि जगत्कृत्स्नं सद्यो नश्येद्धुताशन।
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम्॥ 1-255-26(11117)
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम्।
त्वामग्ने जलदानाहुः खेविषक्तान्सविद्युतः॥ 1-255-27(11118)
दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः।
जातवेदस्त्वयैवेदं विश्वं सृष्टं महाद्युते॥ 1-255-28(11119)
तवैव कर्मविहितं भूतं सर्वं चराचरम्।
त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत्॥ 1-255-29(11120)
त्वयि हव्यं च कव्यं च यथावत्संप्रतिष्ठितम्।
त्वमेव दहनो देव त्वं धाता त्वं बृहस्पतिः॥ 1-255-30(11121)
त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः। 1-255-31(11122)
वैशम्पायन उवाच।
एवं स्तुतस्तदा तेन मन्दपालेन पावकः॥ 1-255-31x(1338)
तुतोष तस्य नृपते मुनेरमिततेजसः।
उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते॥ 1-255-32(11123)
तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम्।
प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय॥ 1-255-33(11124)
तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः।
खाण्डवे तेन काले न प्रजज्वाल दिदक्षया॥ ॥ 1-255-34(11125)
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥ 255 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-255-23 पुत्राणां दहनाद्भीतो इति ङ. पाठः॥ पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः॥ 255 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|